OLYMPUS DIGITAL CAMERA

श्री गणेशाय नमः

अस्य श्री शनै चर-स्तोत्र-मन्त्रस्य ।
दशरथ ऋषिः शनै चरो देवता ।
त्रिष्टुप् छन्दः । शनै चरप्रीत्यर्थे
जपे विनियोगः ।

दशरथ उवाच-
कोणोन्तको रौद्रयमोऽथ बभ्रुः
कृष्णः शनिः पिङ्गल-मन्द-सौरिः ।
नित्यं स्मृतो यो हरते च पीडां
तस्मै नमः श्रीरविनन्दनाय ।। 1 ।।

सुरासुराः किं पुरुषोरगेन्द्रा
गन्धर्वविद्याधरपन्नगा च ।
पीड¬न्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय ।। 2 ।।

नरा नरेन्द्राः पशवो मृगेन्द्रा
वन्या च ये कीट-पतङ्गभृङ्गाः ।
पीड¬न्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय ।। 3 ।।

देशा च दुर्गाणि वनानि यत्र
सेनानिवेशाः पुरपत्तनानि
पीड¬न्ति सर्वे विषमस्थितेन
तस्मै नमः श्रीरविनन्दनाय ।। 4 ।।

तिलैर्यवैर्-माष-गुडान्न-दानैः
लोहेन-नीलाम्बर-दानतो वा ।
प्रीणाति मन्त्रैर्निजवासरे च
तस्मै नमः श्रीरविनन्दनाय ।। 5 ।।

प्रयागकूले यमुनातटे च
सरस्वती-पुण्यजले गुहायाम् ।
यो योगिनां ध्यानगतोऽपि सूक्ष्म
तस्मै नमः श्रीरविनन्दनाय ।। 6 ।।

अन्यप्रदेशात्स्वगृहं प्रविष्टः
तदीयवारे स नरः सुखी स्यात् ।
गृहाद्गतो यो न पुनः प्रयाति
तस्मै नमः श्रीरविनन्दनाय ।। 7 ।।

रुाष्टा स्वयंभूर्भुवन-त्रयस्य
त्राता हरीशो हरते पिनाकी ।
एकस्त्रिधा ऋग्यजुस-साममूर्तिः
तस्मै नमः श्रीरविनन्दनाय ।। 8 ।।

शन्यष्टकं यः प्रयतः प्रभाते
नित्यं सुपुत्रैः पशुबान्धवै च ।
पठेत्तु सौख्यं भुवि भोगयुक्तः
प्राप्नोति निर्वाणपदं तदन्ते ।। 9 ।।

कोणस्थः पिङ्गलो बभ्रुः
कृष्णो रौद्रोऽन्तको यमः ।
सौरिः शनै चरो मन्दः
पिप्पलादेन संस्तुतः ।। 10 ।।

एतानि दश नामानि प्रात-रुत्थाय यः पठेत् ।
शनै चरकृता पीडा न कदाचित् भविष्यति ।।

।। इति श्री शनै चर स्तोत्रम् संपूर्णम् ।।


1 Comment

VARADARAJAN · January 29, 2015 at 7:46 am

GOOD STOTRAM. ME AND MY SON BOTH ARE OF Dhanur rasi. Can we recite this everyday or evvery Saturday as our 7.5 year Saturn cycle is on?
Mine is third cycle as I am 71.
Pl advice.

Leave a Reply

Your email address will not be published.