श्री वरलक्ष्मि नमस्तुभ्यम्

श्रीवरलक्ष्मि नमस्तुभ्यम् | वसुप्रदे श्रीसारसपदे रसपदे सपदे पदे पदे || भावजजनकप्राणवल्लभे सुवर्णाभे भानुकोटिसमानप्रभे भक्तसुलभे | सेवकजनपालिन्यै श्रितपङ्कजमालिन्यै केवलगुणशालिन्यै केशवहृत्खेलिन्यै || श्रावणपौर्णमी पूर्वस्थ शुक्रवारे चारुमती प्रभृतिभिः पूजिताकारे | देवादिगुरुगुहसमर्पितमणिमयहारे दीनजनसंरक्षणनिपुणकनकधारे || भावनाभेदचतुरे भारतीसन्नुतवरे | कैवल्यवितरणपरे काङ्क्षितफलप्रदकरे ||