Sri Subrahmanya Pancharatnam

श्रीसुब्रह्मण्यपञ्चरत्नम् षडाननं चन्दनलेपिताङ्गं महामतिं दिव्यमयूरवाहनम् । रुद्रस्य सूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ १ ॥ जाज्वल्यमानं सुरबृन्दवन्द्यं कुमारधारतटमन्दिरस्थम् । कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ २ ॥ द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसिं दधानम् । शेषावतारं कमनीयरूपम् ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३ ॥ सुरारिघोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् । सुधारशक्त्यायुधशोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये Read more…